मनुस्मृतिः/द्वितीयोध्यायः
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत । । २.१ । । |
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः । । २.२ । । |
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः ।
व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः । । २.३ । । |
अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् । । २.४ । । |
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् ।
यथा संकल्पितांश्चेह सर्वान्कामान्समश्नुते । । २.५ । । |
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च । । २.६ । । |
यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः । । २.७ । । |
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान्स्वधर्मे निविशेत वै । । २.८ । । |
श्रुतिस्मृत्युदितं धर्मं अनुतिष्ठन्हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् । । २.९ । । |
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ । । २.१० । । |
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः । । २.११ । । |
वेदः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् । । २.१२ । । |
अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः । । २.१३ । । |
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।
उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः । । २.१४ । । |
उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः । । २.१५ । । |
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिञ् ज्ञेयो नान्यस्य कस्य चित् । । २.१६ । । |
सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते । । २.१७ । । |
तस्मिन्देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते । । २.१८ । । |
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः । । २.१९ । । |
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः । । २.२० । । |
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः । । २.२१ । । |
आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः । । २.२२ । । |
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः । । २.२३ । । |
एताण् द्विजातयो देशान्संश्रयेरन्प्रयत्नतः ।
शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः । । २.२४ । । |
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।
संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत । । २.२५ । । |
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च । । २.२६ । । |
गार्भैर्होमैर्जातकर्म चौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानां अपमृज्यते । । २.२७ । । |
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । । २.२८ । । |
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् । । २.२९ । । |
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते । । २.३० । । |
मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् । । २.३१ । । |
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् । । २.३२ । । |
स्त्रीणां सुखोद्यं अक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तं आशीर्वादाभिधानवत् । । २.३३ । । |
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले । । २.३४ । । |
चूडाकर्म द्विजातीनां सर्वेषां एव धर्मतः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् । । २.३५ । । |
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः । । २.३६ । । |
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे । । २.३७ । । |
आ षोदशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः । । २.३८ । । |
अत ऊर्ध्वं त्रयोऽप्येते यथाकालं असंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः । । २.३९ । । |
नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् ।
ब्राह्मान्यौनांश्च संबन्धान्नाचरेद्ब्राह्मणः सह । । २.४० । । |
कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च । । २.४१ । । |
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी । । २.४२ । । |
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा । । २.४३ । । |
कार्पासं उपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २.४४ । । |
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवाउदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः । । २.४५ । । |
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः । । २.४६ । । |
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः । । २.४७ । । |
प्रतिगृह्येप्सितं दण्डं उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि । । २.४८ । । |
भवत्पूर्वं चरेद्भैक्षं उपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् । । २.४९ । । |
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् । । २.५० । । |
समाहृत्य तु तद्भैक्षं यावदन्नं अमायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः । । २.५१ । । |
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः । । २.५२ । । |
उपस्पृश्य द्विजो नित्यं अन्नं अद्यात्समाहितः ।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् । । २.५३ । । |
पूजयेदशनं नित्यं अद्याच्चैतदकुत्सयन् ।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः । । २.५४ । । |
पूजितं ह्यशनं नित्यं बलं ऊर्जं च यच्छति ।
अपूजितं तु तद्भुक्तं उभयं नाशयेदिदम् । । २.५५ । । |
नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा ।
न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्व चिद्व्रजेत् । । २.५६ । । |
अनारोग्यं अनायुष्यं अस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । । २.५७ । । |
ब्राह्मेण विप्रस्तीर्थेन नित्यकालं उपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन । । २.५८ । । |
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायं अङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः । । २.५९ । । |
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च । । २.६० । । |
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः । । २.६१ । । |
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः । । २.६२ । । |
उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः ।
सव्ये प्राचीनावीती निवीती कण्ठसज्जने । । २.६३ । । |
मेखलां अजिनं दण्डं उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् । । २.६४ । । |
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः । । २.६५ । । |
अमन्त्रिका तु कार्येयं स्त्रीणां आवृदशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् । । २.६६ । । |
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।
पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया । । २.६७ । । |
एष प्रोक्तो द्विजातीनां औपनायनिको विधिः ।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत । । २.६८ । । |
उपनीय गुरुः शिष्यं शिक्षयेच्छौचं आदितः ।
आचारं अग्निकार्यं च संध्योपासनं एव च । । २.६९ । । |
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रं उदङ्मुखः ।
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । । २.७० । । |
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । । २.७१ । । |
व्यत्यस्तपाणिना कार्यं उपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः । । २.७२ । । |
अध्येष्यमाणं तु गुरुर्नित्यकालं अतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् । । २.७३ । । |
ब्रह्मनः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यति । । २.७४ । । |
प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओंकारं अर्हति । । २.७५ । । |
अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च । । २.७६ । । |
त्रिभ्य एव तु वेदेभ्यः पादं पादं अदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः । । २.७७ । । |
एतदक्षरं एतां च जपन्व्याहृतिपूर्विकाम् ।
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते । । २.७८ । । |
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते । । २.७९ । । |
एतया र्चा विसंयुक्तः काले च क्रियया स्वया ।
ब्रह्मक्षत्रियविश्योनिर्गर्हणां याति साधुषु । । २.८० । । |
ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् । । २.८१ । । |
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परं अभ्येति वायुभूतः खमूर्तिमान् । । २.८२ । । |
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते । । २.८३ । । |
क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।
अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः । । २.८४ । । |
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः । । २.८५ । । |
ये पाकयज्ञास्चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् । । २.८६ । । |
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते । । २.८७ । । |
इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे यत्नं आतिष्ठेद्विद्वान्यन्तेव वाजिनाम् । । २.८८ । । |
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः ।
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः । । २.८९ । । |
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता । । २.९० । । |
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः ।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते । । २.९१ । । |
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
यस्मिन्जिते जितावेतौ भवतः पञ्चकौ गणौ । । २.९२ । । |
इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् ।
संनियम्य तु तान्येव ततः सिद्धिं निगच्छति । । २.९३ । । |
न जातु कामः कामानां उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते । । २.९४ । । |
यश्चैतान्प्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् ।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते । । २.९५ । । |
न तथैतानि शक्यन्ते संनियन्तुं असेवया ।
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः । । २.९६ । । |
वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् । । २.९७ । । |
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः । । २.९८ । । |
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् । । २.९९ । । |
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ।
सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम् । । २.१०० । । |
पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीं आर्कदर्शनात् ।
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् । । २.१०१ । । |
पूर्वां संध्यां जपंस्तिष्ठन्नैशं एनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् । । २.१०२ । । |
न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः । । २.१०३ । । |
अपां समीपे नियतो नैत्यकं विधिं आस्थितः ।
सावित्रीं अप्यधीयीत गत्वारण्यं समाहितः । । २.१०४ । । |
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि । । २.१०५ । । |
नैत्यके नास्त्यनध्यायो ब्रह्मसत्त्रं हि तत्स्मृतम् ।
ब्रह्माहुतिहुतं पुण्यं अनध्यायवषट्कृतम् । । २.१०६ । । |
यः स्वाध्यायं अधीतेऽब्दं विधिना नियतः शुचिः ।
तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु । । २.१०७ । । |
अग्नीन्धनं भैक्षचर्यां अधःशय्यां गुरोर्हितम् ।
आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः । । २.१०८ । । |
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः । । २.१०९ । । |
नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् । । २.११० । । |
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति । । २.१११ । । |
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वप्तव्या शुभं बीजं इवोषरे । । २.११२ । । |
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
आपद्यपि हि घोरायां न त्वेनां इरिणे वपेत् । । २.११३ । । |
विद्या ब्राह्मणं एत्याह शेवधिस्तेऽस्मि रक्ष माम् ।
असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा । । २.११४ । । |
यं एव तु शुचिं विद्यान्नियतब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने । । २.११५ । । |
ब्रह्म यस्त्वननुज्ञातं अधीयानादवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते । । २.११६ । । |
लौकिकं वैदिकं वापि तथाध्यात्मिकं एव वा ।
आददीत यतो ज्ञानं तं पूर्वं अभिवादयेत् । । २.११७ । । |
सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी । । २.११८ । । |
शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् । । २.११९ । । |
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते । । २.१२० । । |
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् । । २.१२१ । । |
अभिवादात्परं विप्रो ज्यायांसं अभिवादयन् ।
असौ नामाहं अस्मीति स्वं नाम परिकीर्तयेत् । । २.१२२ । । |
नामधेयस्य ये के चिदभिवादं न जानते ।
तान्प्राज्ञोऽहं इति ब्रूयात्स्त्रियः सर्वास्तथैव च । । २.१२३ । । |
भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः । । २.१२४ । । |
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । । २.१२५ । । |
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः । । २.१२६ । । |
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुं अनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रं आरोग्यं एव च । । २.१२७ । । |
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भोभवत्पूर्वकं त्वेनं अभिभाषेत धर्मवित् । । २.१२८ । । |
परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः ।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च । । २.१२९ । । |
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।
असावहं इति ब्रूयात्प्रत्युत्थाय यवीयसः । । २.१३० । । |
मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा ।
संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया । । २.१३१ । । |
भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः । । २.१३२ । । |
पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद्वृत्तिं आतिष्ठेन्माता ताभ्यो गरीयसी । । २.१३३ । । |
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु । । २.१३४ । । |
ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता । । २.१३५ । । |
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् । । २.१३६ । । |
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः । । २.१३७ । । |
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च । । २.१३८ । । |
तेषां तु समावेतानां मान्यौ स्नातकपार्थिवौ ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक् । । २.१३९ । । |
उपनीय तु यः शिष्यं वेदं अध्यापयेद्द्विजः ।
सकल्पं सरहस्यं च तं आचार्यं प्रचक्षते । । २.१४० । । |
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थं उपाध्यायः स उच्यते । । २.१४१ । । |
निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुरुच्यते । । २.१४२ । । |
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्य र्त्विगिहोच्यते । । २.१४३ । । |
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन । । २.१४४ । । |
उपाध्यायान्दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते । । २.१४५ । । |
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् । । २.१४६ । । |
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद्यद्योनावभिजायते । । २.१४७ । । |
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा । । २.१४८ । । |
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तं अपीह गुरुं विद्याच्छ्रुतोपक्रियया तया । । २.१४९ । । |
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः । । २.१५० । । |
अध्यापयां आस पितॄन्शिशुराङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् । । २.१५१ । । |
ते तं अर्थं अपृच्छन्त देवानागतमन्यवः ।
देवाश्चैतान्समेत्योचुर्न्याय्यं वः शिशुरुक्तवान् । । २.१५२ । । |
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालं इत्याहुः पितेत्येव तु मन्त्रदम् । । २.१५३ । । |
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् । । २.१५४ । । |
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणां एव जन्मतः । । २.१५५ । । |
न तेन वृद्धो भवति येनास्य पलितं शिरः ।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः । । २.१५६ । । |
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति । । २.१५७ । । |
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः । । २.१५८ । । |
अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् ।
वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मं इच्छता । । २.१५९ । । |
यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वं अवाप्नोति वेदान्तोपगतं फलम् । । २.१६० । । |
नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
ययास्योद्विजते वाचा नालोक्यां तां उदीरयेत् । । २.१६१ । । |
सम्मानाद्ब्राह्मणो नित्यं उद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा । । २.१६२ । । |
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति । । २.१६३ । । |
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन्सञ्चिनुयाद्ब्रह्माधिगमिकं तपः । । २.१६४ । । |
तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना । । २.१६५ । । |
वेदं एव सदाभ्यस्येत्तपस्तप्स्यन्द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परं इहोच्यते । । २.१६६ । । |
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् । । २.१६७ । । |
योऽनधीत्य द्विजो वेदं अन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वं आशु गच्छति सान्वयः । । २.१६८ । । |
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् । । २.१६९ । । |
तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते । । २.१७० । । |
वेदप्रदानादाचार्यं पितरं परिचक्षते ।
न ह्यस्मिन्युज्यते कर्म किञ् चिदा मौञ्जिबन्धनात् । । २.१७१ । । |
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ।
शूद्रेण हि समस्तावद्यावद्वेदे न जायते । । २.१७२ । । |
कृतोपनयनस्यास्य व्रतादेशनं इष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् । । २.१७३ । । |
यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि । । २.१७४ । । |
सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थं आत्मनः । । २.१७५ । । |
नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानं एव च । । २.१७६ । । |
वर्जयेन्मधु मांसं च गन्धं माल्यं रसान्स्त्रियः ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् । । २.१७७ । । |
अभ्यङ्गं अञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् । । २.१७८ । । |
द्यूतं च जनवादं च परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भं उपघातं परस्य च । । २.१७९ । । |
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित् ।
कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतं आत्मनः । । २.१८० । । |
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रं अकामतः ।
स्नात्वार्कं अर्चयित्वा त्रिः पुनर्मां इत्यृचं जपेत् । । २.१८१ । । |
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् । । २.१८२ । । |
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् । । २.१८३ । । |
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् । । २.१८४ । । |
सर्वं वापि चरेद्ग्रामं पूर्वोक्तानां असंभवे ।
नियम्य प्रयतो वाचं अभिशस्तांस्तु वर्जयेत् । । २.१८५ । । |
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।
सायंः प्रातश्च जुहुयात्ताभिरग्निं अतन्द्रितः । । २.१८६ । । |
अकृत्वा भैक्षचरणं असमिध्य च पावकम् ।
अनातुरः सप्तरात्रं अवकीर्णिव्रतं चरेत् । । २.१८७ । । |
भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती ।
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता । । २.१८८ । । |
व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ र्षिवत् ।
कामं अभ्यर्थितोऽश्नीयाद्व्रतं अस्य न लुप्यते । । २.१८९ । । |
ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः ।
राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते । । २.१९० । । |
चोदितो गुरुणा नित्यं अप्रचोदित एव वा ।
कुर्यादध्ययने यत्नं आचार्यस्य हितेषु च । । २.१९१ । । |
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् । । २.१९२ । । |
नित्यं उद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः ।
आस्यतां इति चोक्तः सन्नासीताभिमुखं गुरोः । । २.१९३ । । |
हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् । । २.१९४ । । |
प्रतिश्रावणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः । । २.१९५ । । |
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः ।
प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः । । २.१९६ । । |
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः । । २.१९७ । । |
नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् । । २.१९८ । । |
नोदाहरेदस्य नाम परोक्षं अपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् । । २.१९९ । । |
गुरोर्यत्र परिवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः । । २.२०० । । |
परीवादात्खरो भवति श्वा वै भवति निन्दकः ।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी । । २.२०१ । । |
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
यानासनस्थश्चैवैनं अवरुह्याभिवादयेत् । । २.२०२ । । |
प्रतिवातेऽनुवाते च नासीत गुरुणा सह ।
असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् । । २.२०३ । । |
गोऽश्वोष्ट्रयानप्रासाद प्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च । । २.२०४ । । |
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिं आचरेत् ।
न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् । । २.२०५ । । |
विद्यागुरुष्वेवं एव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि । । २.२०६ । । |
श्रेयःसु गुरुवद्वृत्तिं नित्यं एव समाचरेत् ।
गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु । । २.२०७ । । |
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन्गुरुसुतो गुरुवन्मानं अर्हति । । २.२०८ । । |
उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् । । २.२०९ । । |
गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः । । २.२१० । । |
अभ्यञ्जनं स्नापनं च गात्रोत्सादनं एव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् । । २.२११ । । |
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता । । २.२१२ । । |
स्वभाव एष नारीणां नराणां इह दूषणम् ।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः । । २.२१३ । । |
अविद्वांसं अलं लोके विद्वांसं अपि वा पुनः ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् । । २.२१४ । । |
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसं अपि कर्षति । । २.२१५ । । |
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहं इति ब्रुवन् । । २.२१६ । । |
विप्रोष्य पादग्रहणं अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मं अनुस्मरन् । । २.२१७ । । |
यथा खनन्खनित्रेण नरो वार्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति । । २.२१८ । । |
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः ।
नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् । । २.२१९ । । |
तं चेदभ्युदियात्सूर्यः शयानं कामचारतः ।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् । । २.२२० । । |
सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः ।
प्रायश्चित्तं अकुर्वाणो युक्तः स्यान्महतैनसा । । २.२२१ । । |
आचम्य प्रयतो नित्यं उभे संध्ये समाहितः ।
शुचौ देशे जपञ् जप्यं उपासीत यथाविधि । । २.२२२ । । |
यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् ।
तत्सर्वं आचरेद्युक्तो यत्र चास्य रमेन्मनः । । २.२२३ । । |
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च ।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः । । २.२२४ । । |
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः । । २.२२५ । । |
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः । । २.२२६ । । |
यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि । । २.२२७ । । |
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते । । २.२२८ । । |
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैरनभ्यनुज्ञातो धर्मं अन्यं समाचरेत् । । २.२२९ । । |
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ।
त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः । । २.२३० । । |
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ।
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी । । २.२३१ । । |
त्रिष्वप्रमाद्यन्नेतेषु त्रीन्लोकान्विजयेद्गृही ।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते । । २.२३२ । । |
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते । । २.२३३ । । |
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः । । २.२३४ । । |
यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।
तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः । । २.२३५ । । |
तेषां अनुपरोधेन पारत्र्यं यद्यदाचरेत् ।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः । । २.२३६ । । |
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते । । २.२३७ । । |
श्रद्दधानः शुभां विद्यां आददीतावरादपि ।
अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि । । २.२३८ । । |
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तं अमेध्यादपि काञ्चनम् । । २.२३९ । । |
स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शील्पानि समादेयानि सर्वतः । । २.२४० । । |
अब्राह्मणादध्यायनं आपत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः । । २.२४१ । । |
नाब्राह्मणे गुरौ शिष्यो वासं आत्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने काङ्क्षन्गतिं अनुत्तमाम् । । २.२४२ । । |
यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले ।
युक्तः परिचरेदेनं आ शरीरविमोक्षणात् । । २.२४३ । । |
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् । । २.२४४ । । |
न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् ।
स्नास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थं आहरेत् । । २.२४५ । । |
क्षेत्रं हिरण्यं गां अश्वं छत्रोपानहं आसनम् ।
धान्यं शाकं च वासांसि गुरवे प्रीतिं आवहेत् । । २.२४६ । । |
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिं आचरेत् । । २.२४७ । । |
एतेष्वविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहं आत्मनः । । २.२४८ । । |
एवं चरति यो विप्रो ब्रह्मचर्यं अविप्लुतः ।
स गच्छत्युत्तमस्थानं न चेह जायते पुनः । । २.२४९ । । |
No comments:
Post a Comment